|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.84. अध्यायः 084
Mahabharata - Karna Parva - Chapter Topics
सङ्कुतxxxxx ॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-84-0x(5043)(59195)
xxxxxxxxxxxप्रबरैर्वलैर्भीममभिद्रुतम्।
xxxxxxxxxx कौन्तेयमुस्थिहीर्षुर्धनञ्जयः॥ 8-84-1(59196)
xxxxxxxxx सेनां मारत सायकैः।
xxxxxxxxxx परवीरान्धनञ्जयः॥ 8-84-2(59197)
xxxxxxxxxxx शरजालानि भागशः।
अदृश्यन्त तथान्ये च निजघ्नुस्तव वाहिनीम्॥ 8-84-3(59198)
स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः।
धनञ्जयो महाबाहुः कुरूणामन्तकोऽमयत् 8-84-4(59199)
ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि।
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह॥ 8-84-5(59200)
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः।
पातितैश्च पतद्भिश्च योधैरासीत्समावृता॥ 8-84-6(59201)
धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः।
सञ्छिन्नभिन्नविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता।
गतसत्वैः ससत्वैश्च संवृताऽऽसीद्वसुन्धरा॥ 8-84-7(59202)
सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा।
रणभूमिरभूद्राजन्महावैतरणी यथा॥ 8-84-8(59203)
ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम्।
ससूतैर्हतसूतैश्च रथैः स्तीर्णाऽभवन्मही॥ 8-84-9(59204)
सुवर्णवर्मसन्नाहैर्योधैः कनकमालिभिः।
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः॥ 8-84-10(59205)
क्रुद्धाः क्रुरैर्महामात्रैः प्रेषितार्जुनमभ्ययुः।
चतुः शता रथवरा हताः पेतुः किरीटिना॥ 8-84-11(59206)
पर्यस्तानीव शृङ्गाणि ससत्वानि महागिरेः।
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः॥ 8-84-12(59207)
समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः।
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान्॥ 8-84-13(59208)
हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः।
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः।
उपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै॥ 8-84-14(59209)
विस्फारितं च गाण्डीवमत्यासीद्भैरवस्वनम्
सुघोषं वज्रनिष्पेषं स्तनयन्निव तोयदः॥ 8-84-15(59210)
ततः प्रादीर्यत चमूर्धनञ्जयशराहता।
महावातसमाविद्धा महानौरिव सागरे॥ 8-84-16(59211)
नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः।
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्॥ 8-84-17(59212)
महागिरौ वेणुवनं निशि प्रज्वलितं यथा।
तथा तव महासैन्यं प्रास्फुरच्छरपीडितम्॥ 8-84-18(59213)
तद्विनष्टं सुविध्वस्तं तव सैन्यं किरीटिना।
हतप्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः॥ 8-84-19(59214)
सश्वापदा मृगगणा दावाग्नित्रासिता यथा।
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना॥ 8-84-20(59215)
उत्सृज्य च महाबाहुं भीमसेनं तथा रणे।
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम्॥ 8-84-21(59216)
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः।
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत॥ 8-84-22(59217)
समागम्य च भीमेन मन्त्रयित्वा च फल्गुनः।
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्॥ 8-84-23(59218)
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः।
नादन्रथघोषेण पृथिवीं द्यां च भारत॥ 8-84-24(59219)
ततः परिवृतो वीरैर्दशभिः शत्रुतापनः।
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः॥ 8-84-25(59220)
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्।
आततेष्वसना वीरा नृत्यन्त इव भारत॥ 8-84-26(59221)
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः।
नियुक्तान्हि स तान्मेने यमायाशु किरीटिना॥ 8-84-27(59222)
तथान्ये प्राणदन्मूढाः पराङ्मुखमिवार्जुनम्॥ 8-84-28(59223)
तेषां नानदतां केतूनश्वांश्चापानि सारथीन्।
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यकृन्तत॥ 8-84-29(59224)
*अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत्।
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले॥ 8-84-30(59225)
तेषां वक्राणि विबभुर्व्योम्नि तारागणा इव॥ 8-84-31(59226)
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्।
रुक्माङ्गदाव्रुक्मपुङ्खैर्हत्वा प्रायादमित्रहा॥ ॥ 8-84-32(59227)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुरशीतितमोऽध्यायः॥ 84 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-84-* अत्रार्जुनकृतं दशधृतराष्ट्रपुत्रहननं विचारणीयम्। 8-84-17 विनिर्दहन्नित्यत्राडभाव आषेः॥ 8-84-84 चतुरशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|